Shri-radha symbol

Pātañjala-yoga-dārśanam + Advaitins + Laukika-nāṭya-śāstram + śuddha-bhakti-rasa-siddhāntaḥ of the Gauḍīyas/Caitanyāites (in Sanskrit, Hindi and English)

पातञ्जलसूत्रविनिर्दिष्टेश्वरस्य निर्विशेषत्वमयौक्तिकं निर्विशेषब्रह्माद्वैतवेदान्तिनां पक्षेऽपि / अद्वैतवेदान्तिनां पक्षे तु यत्कल्पितभक्तित्वं कल्पितद्वैतं तच्च निरस्तम् / लौकिकनाट्यशास्त्रस्यपञ्चमवेदत्वं निराकृतं भगवद्भक्तिरतेर्चिदानन्दरसमयत्वात्तद्भक्ते: भगवत्स्वरूपभूतह्लादिनीशक्तिपरिणतिविशेषत्वाच्च / पातञ्जलयोगसूत्रकथित ईश्वर के निर्विशेषत्व की अयौक्तिकता निर्विशेषब्रह्मवेदान्तियों के मत में भी / अद्वैतवेदान्तियों के द्वारा स्वीकृत कल्पितद्वैत व उस पर आश्रित कल्पितभक्तित्व का खण्डन / लौकिक नाट्यशास्त्र के पञ्चमवेदत्व का निराकरण भगवद्भक्तिरति के चिदानन्दरसमयत्व से तथा उस भक्ति के भगवत्स्वरूपभूता ह्लादिनी शक्ति की परिणति विशेष होने से (केवल प्रथम बिन्दु तीनों भाषाओं में – अन्य बिन्दु केवल संस्कृत में समयाभाव के कारण) /   Logical fallacy shown in the acceptance of the concept of non-specified (nirviśeṣa)‘īśvara’  promulgated by the Pātañjala-yoga-sutras – in context of nirviśeṣa-brahmādvaita-vedāntins / Confutation of the theory of the imagined Dvaita & thereupon sheltered imagined Bhakti – as accepted by Advaitins / Refutation of the Pañcama-veda status of the mundane Nāṭya-śāstram on the basis of the cid-ānanda-rasa-mayatva of Bhakti & such Bhakti’s ontology as a peculiar display of the felicitous potency/Hlādinī – innate to the bhagavat-svarūpa. (Only the 1st theme is in all three languages; rest points are in Sanskrit, only, due to scarcity of time.)

 

 

 

क/a) औपनिषदिकानामद्वैतवादिनां मतेऽपि प्राकृताप्राकृतोपाधिविनिर्मुक्तनिरुपाधिक-तदुपाध्युपेतसोपाधिकयोर्ब्रह्मणोर्वैलक्षण्यमवगम्यते व्यावहारिकप्रातिभासिकपारमार्थिकेतित्रिविधसत्तातलेष्विति श्रीविद्यारण्यतीर्थकृद्वेदान्तपञ्चदश्या: । तस्मात्पातञ्जलयोगसूत्रविनिर्दिष्टेश्वरस्य पुरुषविशेषस्य प्रपञ्चातीतोपाधिरहितं निर्विशेषत्वं नाप्यद्वैतसम्मितं तदद्वैतवादे त्वीश्वरेण सोपाधिकब्रह्मणा लौकिकजगदुद्भवस्थितिनिरोधात्मकक्रियाकारितत्वात् । / aupaniṣadikānām advaita-vādināṁ mate ‘pi prākrṭāprākṛtopādhi-vinirmukta-nirupādhika-tad-upādhy-upeta-sopādhikayor brahmaṇor vailakṣaṇyam avagamyate vyāvahārika-prātibhāsika-pāramārthiketi-trividha-sattā-taleṣv iti śrī-vidyāraṇya-tīrtha-kṛd-vedānta-pañcadaśyāḥ. tasmāt pātañjala-yoga-sūtra-vinirdiṣṭeśvarasya puruṣa-viśeṣasya prapañcātīta-upādhi-rahitaṁ nirviśeṣatvam nāpy advaita-sammitaṁ tad-advaita-vāde tv īśvareṇa sopādhika-brahmaṇā laukika-jagad-udbhava-sthiti-nirodhātmaka-kriyā-kāritatvāt. / औपनिषदिक अद्वैतवादियों के मत में भी निरुपाधिक व सोपाधिक ब्रह्मोभय में वैलक्षण्य परिदृष्ट होता है – व्यावहारिकी, प्रातिभासिकी व पारमार्थिकी इन तीन प्रकार के सत्तातलों पर जो कि प्रमाणित है श्रीविद्यारण्यतीर्थस्वामी की वेदान्तपञ्चदशी से । अतः पातञ्जलयोगसूत्रों के द्वारा प्रतिपादित ईश्वर वा पुरुषविशेष का प्रपञ्चातीत (अलौकिक/अप्राकृत) उपाधि से रहित निर्विशेषत्व तो अद्वैतियों के द्वारा भी सम्मत नहीं क्योंकि उनके मत में तो सोपाधिकब्रह्मरूपी ईश्वर के द्वारा लौकिक जगत् की सृष्टि, पालन व संहारादि क्रियाओं के कर्ता होने से  । / In the opinion of the Aupanṣadika Advaitins a, mutually, diverse specification is observed amidst the two phases of Brahma (the Absolute Reality) viz., the ultimate phase or the nirupādhika-brahma (One without any mundane or supra-mundane limiting adjuncts or prākṛtāprākṛtopādhi-vinirmukta) and the provisional sopādhika-brahma (One with mundane and supra-mundane limiting adjuncts or prākṛtāprākṛtopādhy-upeta). Hence, the concept of īśvara (God) being a puruṣa-viśeṣa (potent principle) and thereby, His transcendence even to the supra-mundane attributes (considered as aprākṛta/triguṇātīta/prapañcātīta-upādhi or divinely limiting adjuncts — by the Advaitins) – thereby, causing nirviśeṣatva (devoid of even the supra-mundane diversity) – is not given advocacy to even by the traditionalist Advaitins, for, in their opinion the īśvara, Who is a sopādhika-brahma (endowed with divine limiting adjuncts), is not, fully, nirviśeṣa (devoid of all limiting adjuncts) due to His remaining as the actor of the triple act characterized by the formation (creation), sustenance and annihilation of the mundane cosmos.

 

ख/b) औपनिषदिकानामद्वैतवादिनां पक्षे तु भगवद्रतिप्रीतीत्याख्याभ्यां लक्षिताया: भगवद्भक्तेर्नित्यत्वं पारमार्थिकवास्तविकत्वञ्च नाभ्युपपद्यते तत्पक्षे तु तद्भगवद्भक्त्या: कल्पितस्वरूपत्वेतिप्रतिपादनात्तदद्वैतिभिः यथोक्तं – “भक्त्यर्थं कल्पितं द्वैतमद्वैतादपि सुन्दरम् ॥ पारमार्थिकमद्वैतं द्वैतं भजनहेतवे । तादृशी यदि भक्तिः स्यात्सा तु मुक्तिशताधिका ॥” (अद्वैतविद्वद्वर्यश्रीनरहरिविरचिते बोधसारे भक्तिप्रकरणे ४२मे श्लोके) इत्यादिना । भक्तिपक्षे तु द्वैतमनिवार्यमेव भक्तिरितराश्रयविषयालम्बनविभावयो: भक्तित्वाद्विभक्तत्वाद्वा तद्भक्तिशब्दस्यार्थद्वैविध्यात् – भगवद्भजने विभाजने च  । भगवद्भजनात्मकपक्षे तु “भजित्येष वै धातुः सेवायां परिकीर्त्तित:” – इति गारुडपुराणनिर्वचनाद्गोपालतापनिश्रुतेस्साक्ष्येणापि चेदिदं श्रूयते – “भक्तिरस्यभजनं तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनस: कल्पनमेतदेव च नैष्कर्म्यमिति” (गो.पू.ता.उ. १.१२/१४/१५ – पाठभेदसङ्ख्याहेतुत्वात्पृथक्पृथक्श्लोकसङ्ख्या:) । रतेराश्रयविषयालम्बनविभावयोः विभजनपक्षे तु भक्तीतिपदस्यायमर्थ: स्वीक्रियते यथा भक्तिरसामृतसिन्धौ (भ.र.सि. २.१.१६) – “तत्राऽलम्बना: — कृष्णश्च कृष्णभक्ताश्च बुधैरालम्बनामता: । रत्यादेर्विषयत्वेन तथाऽधारतयाऽपि च ॥“ इत्यादिना । श्रीमज्जीवगोस्वामिपादा: दुर्गमसङ्गमन्यां स्वकृत्टीकायामाहुः – (भ.र.सि. २.१.१६ – उपरि) – “कृष्णश्च कृष्णभक्ताश्चेत्यत्रायं विवेक: । यमुद्दिश्य रतिः प्रवर्त्तते स विषय: । स च श्रीकृष्ण एवात्र । आधारस्तु रतेराश्रय: । स चात्र मूलं रतेः पात्रं गृह्यते तन्निष्यन्देन ह्याधुनिकाऽपि भक्ता: स्निग्धा भवन्ति……।“ इति च । अनेन प्रमाणितं यद्रतिप्रवर्त्तनहेतुभूततद्रतिविषयाश्रयाऽलम्बिनोर्पारस्परिकं द्वैतं वास्तविकं पारमार्थिकं नित्यञ्च । तदपारमार्थिकपक्षे तु भगवद्भक्तेर्पुमर्थशिरोमणित्वं न लभ्यते । भगवद्भक्तेर्पुमर्थशिरोमणित्वं शास्त्रसिद्धम् ।

 

ननु गोपालतापनिश्रुत्युक्तवचनात्सिद्धं (१.१२/१४/१५) यद्भक्तिः मनस: कल्पनात्मिका इत्यदि तर्हि कथमद्वैतवेदान्तिनामाधुनिकानां यन्मतं कल्पितद्वैताश्रितकल्पितभक्तिमूलकं तद्दुष्टमिति चेत्तत्समाधानमेवमेव – गोपालतापन्या: सर्वेषां टीकाकाराणां मतैक्यमेतैरुद्धरणै:  – (श्रीविश्वेश्वरकृत्टीकायां – “अमुष्मिन्कृष्णे….ब्रह्मणि मनसः कल्पनं प्रेमा तन्मयत्वं….” + श्रीविश्वनाथचक्रवर्त्तिकृत्टीकायां – “अमुष्मिञ्च्छ्रीकृष्णे मनः कल्पनं  मन आदिसर्वेन्द्रियविनियोग इत्यर्थ: । श्रीमद्बलदेवविद्याभूषणपादा अपि – “तथाऽमुष्मिन्कृष्णे मनः कल्पनञ्च । मनः कल्प्यते समर्प्यतेऽनेनेति निरुक्तेः ।“ इत्याद्यैः ।) सुतरामाधुनिकानामद्वैतिनां मते तु यत्कल्पितद्वैताश्रितकल्पितभक्तित्वं श्रूयते तन्मतस्य श्रुतिसमर्थनाभावो स्पष्ट: ।

 

कल्पितवस्तो: शशशृङ्गवदात्यन्तिकालीकत्वं न मत्वाऽपि तस्या: पारमार्थिकाभावस्वीकरणत्वात्तत्परमार्थत्वं नोपपद्यते । एवं स्थिते उत्तमाभक्तेरात्यन्तिकपुमर्थत्वस्य निरासो जायते श्रीमद्भागवतसिद्धान्तेन सह विरोधाद्यदेवमेव (श्री.भा.पु. ३.२९.११-१४ + तत्रैव ९.४.६७ + ६.११.२५ + १.१८.१३ + ५.६.१८ + २.२.३४) – “मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये । मनोगतिरविच्छिन्ना यथा गङ्गाम्भसौ बुधौ ॥ लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जना: ॥ स एव भक्तियोगाख्य आत्यन्तिक उदाहृत: । (गौडीयश्रीमद्राधारमणदासगोस्वामिकृद्दीपिन्यां – “स एव निर्गुणभक्तियोग एवात्यन्तिकोऽन्तिमफलतया पञ्चमपुरुषार्थतया भवतीत्यात्यन्तिक उदाहृतः” + गौडीयश्रीमज्जीवगोस्वामिकृत्क्रमसन्दर्भे – “तस्मात्स एव निर्गुणभक्तियोगो भक्तियोगाख्य आत्यन्तिक: । स एष चान्तिमफलतया भवतीत्यपवर्ग इत्यर्थ: । नाऽत्यन्तिकं विगणयन्तीत्यादेरात्यन्तिकफलतया तत्प्रसिद्धेश्च ।“ + गौडीयश्रीविश्वनाथचक्रवर्त्तिकृत्सारार्थदर्शिण्यां – “किमिति तर्हि भजन्ते भक्तेरेव परमफलत्वादित्याह । स एवेति अत्यन्ते सर्वान्ते भव आत्यन्तिक: । नन्वात्यन्तिकशब्देन सायुज्यमुच्यत इत्याह । भक्तियोगाख्य: भक्तियोगनामायं ततोऽप्यधिकं फलमित्यर्थ: ।“ + निम्बार्कीयश्रीमच्छुकदेवकृत्सिद्धान्तप्रदीपे – “स उक्तप्रकार आत्यन्तिक: परमपुरुषार्थो भक्तियोगाख्य एवोदाहृत:” + पुष्टिमार्गीयश्रीमद्वल्लभाचार्यकृत्सुबोधिन्यां – “भक्तियोग इति तस्यैव नाम । स एवाऽऽत्यन्तिक इत्युदाहृत: तस्य स्वातन्त्र्याय भगवत इव फलसाकत्वमाह – येनेति”)…….येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥…….मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णा: कुतोऽन्यत्कालविप्लुतम् ॥……..न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धिरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥………तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्त्यानां किमुताशिषः ॥…….राजन्पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपति: क्व च किङ्करो वः । अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥…..भगवान्ब्रह्म कार्तस्न्येन त्रीरन्वीक्ष्य मनीषया । तध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत् ॥“ + पद्ममहापुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्येऽपि भक्त्यधिष्ठातृणीं प्रति नारद उवाच (१९०.७) – “अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा । मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ॥“ – इत्यादिविविधशास्त्रप्रमाणकदम्बनिचयेन सिद्धान्तितं यत्साध्यरूपाया: प्रेमलक्षणाया: निर्गुणस्तरीयाया: भक्ते: चतुर्थपुरुषार्थभूतमोक्षतिरस्कारित्वञ्चाऽत्यन्तिकं पञ्चमपुमर्थत्वं चतुर्वर्गातिक्रान्तत्वं च युज्यते । श्रीमद्भागवतप्रतिपन्नसिद्धान्ते चतुर्वर्गान्तर्गताया: कैतवमुक्तेः पार्थक्यं स्यात्पञ्चमपुमर्थभूताया प्रेमाभक्तेरकैतवमुक्तेः साकं यत्प्रमाणितमेतेभ्य: वचनेभ्य: —  “धर्म: प्रोज्झितकैतवोऽत्र परमो…” (श्रीमद्भागवते १.१.२ — तदुपरि श्रीधरस्वामिपादानां भावार्थदीपिकायां – “…प्रशब्देन त्वत्र मोक्षाभिसन्धिरपि निरस्त:”) + पद्मपुराणस्य उत्तरखण्डे – “विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण:…” + स्कन्दपुराणस्य रेवाखण्डे – “निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन । मुक्ता ह्येव भक्तास्ते तव विष्णो यतो हरेः ॥“ + पुराणान्तरे – “हरावेकान्तिकी भक्तिर्मोक्षमाहुर्मनीषिण:” — इत्याद्यैः ।

 

नूनं चतुर्वर्गान्तर्गताया: कैतवमुक्तेरनात्यन्तिकत्वं कथं सिद्ध्यते श्रीमद्भागवतस्यैतद्वचनात् (४.२२.३५) – “तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुत: ॥“ इति चेत्तत्समाधानमेवमेव – श्रीमद्भागवतस्यास्मिन्प्रकरणे कैतवभूतत्रिवर्गतुलनायां हि चतुर्थतमस्य पुरुषार्थस्य कैतवमोक्षस्यापेक्षिकश्रेष्ठत्वं व्यज्यत आत्यन्तिकेतिपदप्रयोगेण सामान्यदृष्टे: चतुर्वर्गपरिमिताया: लोकसामान्यचित्ताधिष्ठिताया: (सर्वसम्प्रदायटीकाकारा एवमाहुः तत्तत्टीकासु – “धर्मार्थकाममोक्षाणामिति तुल्यवन्निर्देशान्मोक्षस्यापि त्रिवर्गसाम्यभ्रान्तिं वारयति ।“ – श्रीवंशीधरशर्म्मकृद्भावार्थदीपिकाप्रकाशे + श्रीधर्यां/भावार्थदीपिकायां –“तुल्यवन्निर्देशात्पुरुषार्थसाम्यभ्रान्तिं वारयति तत्रापीति ।“ + रामानुजीयश्रीमद्वीरराघवाचार्यकृद्व्याख्यायां – “धर्मादिभिः साकं मोक्षस्यतुल्यवन्निर्देशात्तस्येतर पुरुषार्थसाम्यं वारयति तत्रापीति । तत्रापि चतुर्णां मध्ये मोक्षरूप एव पुरुषार्थ आत्यन्तिकतया अत्यन्तमतीत्यवर्तमानतया नित्यतयेत्यर्थ: ।“ + माध्वश्रीविजयध्वजतीर्थस्वामिकृत्पदरत्नावल्यां – “धर्मादिभिः सह पाठात्मोक्षस्यापि तत्तुल्यता स्यादिति शङ्कां परिहरति तत्रापीति ।“ + गौडीयश्रीविश्वनाथचक्रवर्त्तिकृत्सारार्थदर्शिण्यां – “तत्रापि तेष्वपि मध्ये त्रैवर्ग्य: त्रिवर्गभव:” + निम्बार्कीयश्रीमच्छुकदेवकृत्सिद्धान्तप्रदीपे – “तेषु मोक्षो मुख्यः पुरुषार्थः…” + वल्लभीयगोस्वामिगिरिधरलालकृत्बालप्रबोधिन्यां – “तत्र धर्मादिचतुर्ष्वप्यात्यन्तिकतया सर्वोत्कृष्टतया मोक्ष एव पुरुषार्थ….”) । न तु तदात्यन्तिकेतिपदप्रयोगस्य परमत्वं सूचितं (यदात्यन्तिकपदस्य प्रयोगो दृश्यते श्री.भा.म.पु. ४.२२.३५मे श्लोके) नैकानैकबाधकयुक्तिभश्च पञ्चमपुमर्थभूतभक्तेरात्यन्तिकसंसूचकै: पूर्वापरैः श्रीमद्भागवतीयैः साक्ष्यैः ।

 

सुतरां पञ्चमपुमर्थभूताया: भगवद्भक्ते: काल्पनिकत्वं निरस्यते । एतत्सिद्धान्तस्थापनेन सहाद्वैतवेदान्तिनां यन्मतं कल्पितद्वैताश्रितकल्पितभक्तित्वं तन्मतं खण्डितम् । अतः कल्पितद्वैताश्रितकल्पितभक्तिवादमौपनिषदिकश्रुत्यन्तवादमेव न । कस्मात् ? तत्कल्पितवादस्य सर्ववेदान्तसारभूतश्रीमद्भागवतसिद्धान्तेन सह विरोधात् ।

 

ग/c) भरतमुनेर्यन्नाट्यशास्त्रं तल्लौकिकम् । तन्नाट्यशास्त्रस्य पञ्चमवेदत्वं न श्रुतिसिद्धम् । बृहदारण्यकछान्दोग्यादिश्रुतिवाक्येषु विविधेष्वितिहासपुराणानां पञ्चमवेदत्वं स्फुटेन दृश्यते किन्तु तत्तत्स्थले नाट्यशास्त्रस्य किमप्युल्लेखं न वर्त्तते ध्वनितयाऽपि । किन्त्वत्रभगवद्भक्तिरसप्रस्थाने गौडवैष्णवसम्प्रदायस्य श्रीभक्तिरसामृतसिन्धूज्ज्वलनीलमण्यादिनां पारमार्थिकब्रह्मरसविवेचकग्रन्थानां श्रीमद्भागवतादिपञ्चमवेदभूताम्नायानुगतत्वात्प्रामाण्यं निर्विवादेन सिद्धं यथा – (श्रीमज्जीवगोस्वामिपादा: भक्तिरसामृतसिन्धोर्दुर्गमसङ्गमिन्यां टीकायामाहुरुपोद्घाते) – “अथ श्रीमान्सोऽयं ग्रन्थकार: सकलभागवतलोकहिताभिलाषपरवशतया प्रकाशितै: स्वहृदयदिव्यकमलकोषविलासिभि: श्रीमद्भागवतरसैरेव भक्तिरसामृतसिन्धुनामानं ग्रन्थमपूर्वरचनमाचिन्वस्तद्वर्णयितव्यस्यैव च सर्वोत्तमतां निश्चिन्वानस्तद्व्यञ्जनयैव मङ्गलमासञ्जयति ।“ – अनेन वाक्येन श्रीरसामृतसिन्ध्वादिरसब्रह्मविवेचकानां ग्रन्थानां परमार्थपरता युक्तेति प्रमाणितम् ।

 

 

 

(URL — https://goo.gl/MQ8GVb)

 

— भक्तिरसवेदान्तपीठाधिपा: गुरुपादाचार्या: स्वामिन: / Bhakt-rasa-vedānta-pīṭhādhīśvara Gurupādācārya Svāmī

One thought on “Pātañjala-yoga-dārśanam + Advaitins + Laukika-nāṭya-śāstram + śuddha-bhakti-rasa-siddhāntaḥ of the Gauḍīyas/Caitanyāites (in Sanskrit, Hindi and English)

  1. Is yoga-samadhi against the bhakti propagated by the Shad-gaudiya-gosvamis?

    ***

    Reply —

    The ironical notion is that — is the सिद्धदेहकृदष्टयाममानससेवा of राधाप्राणबन्धु: in the स्वारसिकी-लीला of Vraja and imbued with the तत्तद्भावेच्छानुग-कामानुग (भावोल्लास typed समर्था-रति) aesthetic divine love for the youthful Divine Couple — not a trance/समाधि ? Why is, only, the पातंजलसूत्रनिर्दिष्टा समाधि considered as योग? Is रागानुगा-भक्ति: and तदन्तर्गता सिद्धदेहसमाधि or the भक्तियोगरूपिणी समाधि not योग? Who will decide its status? Those पातंजलमतानुयायिगण whose views of a-vaidika ishvara (as expressed by the पातंजलसूत्र maxim — “ईश्वरप्रणिधानाद्वा”) which have been negated by Adi Shankaracharya in his commentary on Brahma-sutras and by all later Vaishnava sects’ Vedanta-bhashyakaras upholding the same अवैदिक status of पातंजलयोगसूत्रनिर्दिष्टेश्वर — will such Patanjali-anuyayis decide whether रागानुगसमाधि: is योग or not? Or will it be decided by the ardent followers of the पंचम-वेद-सार-शिरोमणिभूत श्रीमद्भागवतम् — the Gaudiyas? Was not Maharshi Vedavyasa’s भक्ति-रूपिणी समाधि: considered as yoga in Srimad-bhagavatam verse of First Canto’s Seventh Chapter — “भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले…”? Your answer lies in the answers to these, sarcastically, asked questions.

    ***

    Further elaboration on the dilemma as to whether the Patanjala-yoga-sutra-nidishta Ishvara and tat-sambandhini samadhi is same, similar or distinct from the raganuga-bhakti of Gaudiyas —

    A) Apart from the 16th Century CE dissident from Advaita School of Adi Shankaracharya viz., the propagator of the ‘अविभागाद्वैतवाद:’ doctrine on Vedanta i.e. Sri Vijnanabhikshu of Kashi/Varanasi, no other major school of Vedanta from Shaiva, Shakta, Vaishnava & nirvishesha-brahmavadi denominations has tried to conclude the Vedic status of the concepts of ishvara and tat-sambandhini ashtanga-yogatmika patanjala-sutra-vinirdishta samadhih. All Vedanta schools save the one enumerated above are of unanimous opinion on the a-vaidikatva of the Nirishvara Kapila’s Sankhya & Patanjali’s Yoga systems of philosophy.

    B) Why cannot the Seshvara Sankhya propounded by Bhagavadavatara Kapila and as described in the 3rd Canto of Shrimad-bhagavatam + the Vaidika Ashtanga-yoga as expounded by Him, only, in the same passage of Shrimad-bhagavatam — not be taken as the first and the last choices for being considered as those Sankhya & Yoga Darshanas which Bhagavan Hari wears as His earrings — as vaguely, denoted by Mahabharata?

    Contrastingly, why there is much पूर्वाग्रह of considering the non-Vedantic Sankhya and Yoga Darshanas as the, only, Sankhya & Yoga Darshanas — especially, when their conclusions have been refuted by the majority of Vedantic schools?

    C) According to Gaudiya school on Vedanta, the Seshvara Sankhya is tat-padartha and tvam-padartha-sambandhi jnanam required to, partially, form the sambandhi-tattva-jnanam– one component among the quadruple faceted ‘अनुबन्धचतुष्टयम्’ (sambandha, abhidheya, prayojanam, vishaya/adhikari). And, the Seshvara Ashtanga-yoga is considered as yoga/jnana-mishra-bhaktih. However, both the tat & tvam-padartha jnanams + yoga/jnana-mishra bhakti are not the very limbs of shuddha/uttama/kevala/nirguna bhaktiyoga according to the Gaudiya theology propounded during the conversation of Raya Ramananda & Caitanyadeva as recorded by Caitanya-caritamrita.

    D) Only the negative aspect of the self-realisation is possible through nirishvara darshanas. Not the positive aspect of the atma-sakshatkara. Positive self-realisation is a component of the positive God-realisation (triple due to three phases of advaya-jnana-tattva viz., nirvishesha-brahma, paramatma & bhagavan). Negative self-realisation is limited to ‘neti neti’. Positive realisation of both the God and the individual self is — ‘seti seti’. Vedic scriptures include both सेति and नेति.

    E) The ‘kaivalya’ concept of Patanjala-darshanam is not the same as the moksha concept of Vedanta (Upanishads, Brahma-sutram & Shrimad-bhagavad-gita) and, likewise, not the same as the ‘कैवल्यैकप्रयोजनम्’ of sarva-vedanta-sara Shrimad-bhagavatam’s very last Chapter.

    F) ‘यज्ज्ञात्वा सर्वमेव विज्ञातं भवति’ — of Upanishads — denotes the compulsory necessity of पर-तत्त्व-साक्षात्कार: in order for the जीव-स्व-स्वरूप-साक्षात्कार: to be complete.

    It is to be noted that आर्य-समाजीs or the पंचम-वेद-विनिंदक दयानन्दीs or the सत्यार्थप्रकाशवादीs — too, do accept the Yoga-darshanam of Patanjali to be in full conformity with the Four Vedas. One reason why an Arya-samaji & Bhagavata-drohi certain cowherd family born North Indian & globally famous wealthy Yoga-guru of today’s times is very much fond of Patanjali’s Yoga that he has made it his pharmaceutical and exercise related commercial brand.

    — Bhaktirasavedantapithadhishvara

    Liked by 1 person

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s