श्रीमद्भागवतस्य ज्ञानसाधनत्वादपि परमुपादेयत्वं रसस्वरूपेण कैवल्यमभिव्याप्यत्वात् (केवल संस्कृत में / Only in Sanskrit)

 

 

 

१) प्रश्न: —

 

प्रमाणं नाम (यथावत्) ज्ञानसाधनमेव वा उत किमपि अन्यद्वैशिष्ट्यमस्ति वा ? प्रमाणस्य परमं प्रयोजनं किम् ?

 

 

१) उत्तरम् –

 

गौडवैष्णवमते तु श्रीमद्भागवतं प्रमाणममलमेतत्सम्प्रदायप्रवर्त्तकैः श्रीमच्चैतन्यदेवैः यच्च विनिर्दिष्टं यथा – “आराध्यो भगवान्व्रजेशतनयस्तद्धाम वृन्दावनं रम्या काचिदुपासना व्रजवधूवर्गेण या कल्पिता । श्रीमद्भागवतं प्रमाणममलं प्रेमा पुमर्थो महाञ्छ्रीचैतन्यमहाप्रभोर्मतमिदं तत्राऽदरो न: पर: ॥“ (श्रीश्रीनाथचक्रवर्त्तिनां श्रीमद्भागवतस्य चैतन्यमतमञ्जूषाया: टीकाया: मङ्गलाचरणे) इति । तस्माद्गौडेश्वरसाम्प्रदायिका आहुः – चिदानन्दरसस्वरूपस्य परब्रह्मण: निर्देशो तैत्तिरीयश्रुतेर्ब्रह्मानन्दवल्ल्यां (तै.उ. २.७.२) कृतो यथा – “रसो वै सः रसंह्येवाऽयं लब्ध्वाऽऽनन्दी भवति…” + “रसघन एवैवं वाऽरेयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव” (बृहदारण्यके श्रुतौ) + “विज्ञानमानन्दं ब्रह्म” (बृ.आ.उ. ३.९.२८) + “आनन्दमात्रकरपादमुखोदरादि:” (महाभारताच्छ्रीमद्वल्लभाचार्यैः समुद्धृतं वचनम्) इत्यादय: । पुनश्च गुर्जरादिदेशप्रसिद्धपराशरगोत्रब्राह्मणसम्प्रदायप्राप्ताथर्ववेदस्यौत्कलादिभिराथर्ववणिकैश्चाधीयमानायां पिप्पलादशाखापठितायां गोपालतापन्यां श्रुतौ (यस्या उपरि निम्बार्कगौडादिवैष्णवसाम्प्रदायिकानां टीका: भाष्याणि च वर्त्तन्ते) श्रूयते यदिदं – ”सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥…..तस्मात्कृष्ण एव परो देवस्तं धायेत्तं रसयेत्तं यजेत्तं भजेदिति ॐ तत्सदिति ।“ (गो.पू.ता.उ. १.१ + १.५४/१.५०) + अथर्ववेदीयां कृष्णोपनिषदि चैवं दृश्यते (कृ.उ. १.१२) – “….कृष्णो ब्रह्मैव शाश्वतम्” इति । पञ्चमवेदात्मके महाभारतेऽपि (म.भा.वै.सं. ५.७०.४) दृश्यते – “कृषिभूर्वाचक: शब्दो णश्च निर्वृतिवाचक: । विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वत: ॥“ । आगमेऽपि (बृहद्गौतमीयतन्त्रे) यदिदं – “कृषिशब्दस्य सत्ताऽर्थो णश्चानन्दस्वरूपक: । सुखरूपो भवेदात्मा भावानन्दमयस्तत: ॥“ । मुहुरेव विश्लेषणं प्राप्तमिदं यच्छ्रीमद्भागवते (१०.१४.३२) – “अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥“ । पुनश्च परिलक्ष्यत इदं गौडवैष्णवसाम्प्रदायिकग्रन्थे भक्तिरसामृतसिन्धावपि (श्रीमद्रूपगोस्वामिपादानाम् कृतौ – भ.र.सि. १.१.१ + १.२.५९) – “अखिलरसामृतमूर्त्ति: प्रसृमररुचिरुद्धतारकापालिः । कलितश्यामाललितो राधाप्रेयान्विधुर्जयति ॥“ + “सिद्धान्ततस्त्वभेदेऽपि श्रीशकृष्णस्वरूपयो: । रसेनोत्कृष्यते कृष्णरूपमेषा रसस्थितिः ॥“ । अपि च श्रीमद्भागवते (१०.४७.६०) – “नाऽयं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्या: । रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठलब्धाऽशीषां य उदगाद्व्रजवल्लभीनाम् ॥“  + श्रीमद्भागवते (१०.४३.१७ ) श्रीकृष्णस्याखिलद्वादशचिन्मयरसस्वरूपत्वं वर्णितम् – “मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान्गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रो: शिशु: । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परम् योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रज: ॥“ इति च  । गर्गसंहितायामार्षग्रन्थेऽप्येतत् (ग.सं. १.१.२३-२७) – “चतुर्व्यूहो भवेद्यत्र दृश्यन्ते च रसा नव । अतः परञ्च वीर्याणि स तु पूर्ण: प्रकथ्यते ॥ यस्मिन्सर्वाणि तेजांसि विलीयन्ते स्वतेजसि । तं वदन्ति परे साक्षात्परिपूर्णतमः स्वयम् ॥ परिपूर्णतमः साक्षाच्छ्रीकृष्णो नाऽन्य एव हि । एककार्यार्थमागत्य कोटिकार्यञ्चकार ह ॥ पूर्ण: पुराण: पुरुषोत्तमोत्तम: पराप्तरो यः पुरुषो परेश्वर: । स्वयं सदानन्दमयं कृपाकरं गुणाकरं तं शरणं व्रजाम्यहम् ॥“ इति च । ब्रह्मसंहितायामार्षग्रन्थेऽपि (ब्र.सं. ५.१) – “ईश्वर: परम: कृष्ण: सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्द: सर्वकारणकारणम् ॥“ + पद्मपुराणे श्रीमद्भागवतमाहात्म्ये प्रथमेऽध्याये – “सच्चिदानन्दरूपाय विश्वोत्पत्यादिहेतवे । तापत्रयविनाशाय श्रीकृष्णा वयं नुम: ॥“ । पुनश्च दृश्यत इदं श्रीमद्भागवते तापत्रयोन्मूलकवास्तववस्तुपरब्रह्मण: निरूपणप्रसङ्गे (श्री.भा.म.पु. १.१.२) – “निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम्..” । ब्रह्मवैवर्त्तपुराणोपक्रमे च भगवतः श्रीकृष्णचन्द्रस्याऽसधारणत्वेन माहात्म्यं कीर्त्तितं परोक्षापरोक्षप्रणाल्यैवम्  (ब्र.वै.म.पु. १.१.१-४) – “गणेशब्रह्मेशसुरेशशेषा: सुराश्च सर्वे मनवो मुनीन्द्रा: । सरस्वतीश्रीगिरिजादिका यं नमन्ति देव्य: नमामि तं विभुम् ॥ ब्रह्मेशविष्णुसुरदानवसिद्धपूर्णविश्वानि लोमविवरेषु महान्ति यस्य । सृष्ट्युन्मुखः स्वकलयाऽपि ससर्ज सूक्ष्मां नित्यां समेत्य हृदि यस्तमजं भजामि ॥ ध्यायन्ते ध्याननिष्ठा: सुरनरमनवो योगिनो योगरूढा: सन्त: स्वप्नेऽपि सन्तं कतिकतिजनिभिर्यं न पश्यन्ति तप्ता: । ध्याये स्वेच्छामयं तं त्रिगुणपरमहो निर्विकारं निरीहं भक्त्याध्यानैकहेतोर्निरुपमरुचिरश्यामरूपं दधानम् ॥ वन्दे कृष्णं गुणातीतं परं ब्रह्माच्युतं यतः । आविर्बभूवु: प्रकृतिब्रह्मविष्णुशिवादयः ॥“ । — इत्याद्यैः प्रमाणैः श्रीनन्दनन्दनस्य परब्रह्मण: रसस्वरूपत्त्वञ्च सिद्धान्तितमिति ।

 

श्रीमद्भागवतस्याऽपि रसस्वरूपत्वमुपपद्यते तत्पारमहंस्या: संहिताया: वैयासिक्या: सात्त्वत्या: श्रुतेः (श्रीमद्भागवते १२.१३.१८ – “यस्मिन्पारमहंस्यमेकममलं ज्ञानं परं गीयते” + श्रीमद्भागवते १.४.७ – “…यत्रैषा सात्त्वती श्रुतिः”) श्रीभगवता सहाऽभिन्नस्वरूपत्वाद्यच्च प्रतिपादितमेतैः प्रमाणैः – (पद्मपुराणे) – “पादौ यदीयौ प्रथमद्वितीयौ तृतीयतुर्यौ कथितौ यदूरू नाभिस्तथा पञ्चम एव षष्ठौ भुजान्तरं दोर्युगलं तथाऽन्यौ । कण्ठस्तु राजन्नवमो यदीयौ मुखारविन्दं दशम: प्रफुल्लमेकादशो यस्य ललाटपट्टं शिरोऽपि तु द्वादश एव भाति ॥ तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् । अपारसंसारसमुद्रसेतुं भजामहे भागवतस्वरूपम् ॥“ + (श्रुतौ – श्रीमद्वल्लभाचार्यै: समुद्धृतं श्रौतवचनं द्वादशस्कन्धयुक्तस्य श्रीमद्भागवतरूपिण: श्रीकृष्णस्याऽदिमपुरुषोत्तमस्योपलक्ष्ये) – “द्वादशाङ्गो ह वै पुरुष:” इति च  । पद्मपुराणस्य श्रीमद्भागवतमाहात्म्येऽपि – “तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवम् । तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ॥“ + श्रीमद्भागवते (१.३.४३) – “कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह । कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥“ + (तत्रैव १२.१३.१५) – “सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद्रसामृततृप्तस्य नाऽन्यत्र स्याद्रतिः क्वचित् ॥“ (अत्र श्रीभागवतस्य रसस्वरूपत्वं व्यज्यते स्फुटेन)  + (तत्रैव श्रीमद्भागवते १.१.१९) – “वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥“ (रसज्ञानां विषयत्वेन श्रीमद्भागवतस्य रसरूपता सिद्धा) + (तत्रैव १.१.३) – “…….पिबत भागवतं रसमालयं मुहोरहो रसिका भुवि भावुका:” + पद्मपुराणे श्रीमद्भागवतमाहात्म्येऽपि – “स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रस: । अतः पिबन्तु सद्भाग्या: मा मा मुञ्चत कर्हिचित् ॥“ ।

 

श्रीमद्भागवतस्याऽदिमटीकाकर्तृणामद्वैतसम्प्रदायावलम्बिनां कैवल्यप्राप्तानां तत्कालीनपूर्वाम्नायगोवर्द्धनपुरिपीठाधिपश्रीमच्छङ्कराचार्याणां श्रीधरस्वामिपादानां प्रपूज्यचरणानां मतेऽपि – (श्री.भा.म.पु. १.१.३ – भावार्थदीपिकायां / श्रीधर्याञ्च) – “…..अमृतं परमानन्द: । स एव द्रवो रसः । ‘रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति ।‘ इति श्रुतेः (तै.उ. २.७.२) । अतो हे रसिका हे रसज्ञास्तत्रापि भावुका हे रसविशेषभावनाचतुरा: । अहो भुवि गलितमित्यलभ्यलाभोक्ति: । इदं भागवतं नाम फलं मुहुः पिबत । ननु त्वगष्ट्यादिकं विहाय फलाद्रस: पीयते कथं फलमेव पातव्यं तत्राऽह । रसं रसरूपम् । अतस्त्वगष्ट्यादेर्हेयांशस्याभावात्फलमेव कृत्स्नं पिबत । अत्र च रसतादात्म्याविवक्षया रसवत्त्वस्य विवक्षितत्वाद्गुणवचनेऽपि रसशब्दे मतुपः प्राप्त्यभावात्तेन विनैव रसं फलमिति सामानाधिकरण्यम् । तत्र फलमित्युक्ते पानासम्भवो हेयांशप्रसक्तिश्च भवेदिति तन्निवृत्त्यर्थं रसमित्युक्तं रसमित्युक्तेऽपि गलितस्य रसस्य पातुमशक्यत्वात्फलमिति द्रष्टव्यम् । न च भागवतामृतपानं मोक्षेऽपि त्याज्यमित्याह । आलयं लयो मोक्षऽभिविधावाकार: लयमभिव्याप्य । न हीदं स्वर्गादिसुखवन्मुक्तैरुपेक्ष्यते किन्तु सेव्यत एव । वक्ष्यति हि । ‘आत्मारामश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥‘ (श्रीमद्भावते १.७.१०) इति ।“।

 

गौडवैष्णवाचार्याणां श्रीमद्राधारमणदासगोस्वामिनां मतेऽपि (तत्कृतायां दीपिन्याख्यायां टीकायाञ्च श्रीमद्भागवतोपरि १.१.३) – “अत्र ‘रस’शब्दस्य विशेष्यत्वेऽपि रसवत्त्वे विवक्षाभावान्न तदुत्तरं मतुपः प्राप्तेरिति भावः । तेन विनैव मतुप्प्रत्ययं विनैव । सामानाधिकरण्यं विशेष्यविशेषण भावः ।“

 

गौडवैष्णवाचार्याणां श्रीमज्जीवगोस्वामिप्रभुपादानां मतेऽपि (तत्कृतौ क्रमसन्दर्भे श्रीमद्भागवतोपरि १.१.३) – “त्रिकाण्डतोऽपि श्रैष्ठ्यं तदीयावयवसारत्वनिर्देशेन दोषपरिहारपूर्वकं कारणान्तरं योजयन्पूर्वतोऽपि वैशिष्ट्यमाह – निगमेति । हे भावुका: परममङ्गलायना ये रसिका भगवत्प्रीतिरसज्ञा इत्यर्थ: । ते यूयं वैकुण्ठात्क्रमेण भुवि पृथिव्यामेव गलितमवतीर्णं निगमकल्पतरोः सर्वफलोत्पत्तिभुव: शाखोपशाखाभिर्वैकुण्ठमप्यध्यारूढस्य वेदरूपतरोर्यत्खलु रसरूपं श्रीभागवताख्यं फलं तत्भुव्यपि स्थिता: पिबत आस्वाद्यान्तर्गतं कुरुत श्रीभागवताख्यं यच्छास्त्रं तत्खलु रसवदपि रसैकमयभावविवक्षया रसशब्देन निर्दिष्टं भागवतशब्देनैव तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाऽक्षेपात्शब्दश्लेषेण च भगवत्सम्बन्धिरसमिति गम्यते । स च रसो भगवत्प्रीतिमय एव । ‘यस्यां वै श्रूयमाणायाम्’ (श्रीमद्भागवते १.७.७) इत्यादिफलश्रुतेः यन्मयत्वेनैव श्रीभगवति रसशब्द: श्रुतौ प्रयुज्यते ‘रसो वै स’ (तै. उ. २.७.२) इति स एव च प्रशस्यते । ‘रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति ।…..’रसम्’ इत्यनेन फलपक्षे हेयांशरहितत्वं दर्शितम् ।….अत एव परमस्वादु: परमकाष्ठाप्राप्तत्वात्स्वतोऽन्यतश्च तृप्तिरपि न भविष्यतीत्यालयं मोक्षानन्दमप्यभिव्याप्य पिबतेत्युक्तम् । तथा च वक्ष्यते ‘परिनिष्ठितोऽपि’ (श्रीमद्भावते २.१.९) इत्यादि ।“

 

गौडवैष्णवाचार्याणां श्रीमद्विश्वनाथचक्रवर्त्तिपादानां मतेऽपि (तत्कृतौ सारार्थदर्शिन्यां श्रीमद्भागवतोपरि १.१.३) – “…..लयो मोक्ष: सालोक्यादिजीवन्मुक्तत्वं वा तमभिव्याप्य तत्र तत्र भगवल्लीलागानप्रसिद्धे: ।“

 

निष्कर्षेण त्वेवमेव प्रमाणितं यद्रसस्वरूपत्वात्परब्रह्मणः श्रीनन्दनन्दनस्य तदभिन्नवाङ्मयरूपश्रीमद्भागवतस्यापि च परमसाध्यत्वं प्रतिपद्यते मोक्षादनन्तरमपि । सुतरां गौडवैष्णवमते तु (श्रीधरस्वामिनां मतेऽपि) विमलप्रमाणभूतस्य श्रीमद्भागवतस्य ज्ञानसाधनत्वं स्वीकृतमपि तत: परं तद्रसशास्त्रस्य परमसाध्यत्वञ्च मोक्षावाप्त्यनन्तरत्वमबाधितनित्याऽस्वाद्यत्वमप्यवगम्यते ।

 

प्रमाणस्य परमं प्रयोजनं रसास्वादनकारकत्वम् । गौडवैष्णवाचार्यै: श्रीमद्रूपगोस्वामिप्रभुपादैः व्याख्यायितं यत् – “व्यतीत्य भावनावर्त्म यश्चमत्कारभारभू: । हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः ॥“ + “भावनाया: पदे यस्तु बुधेनाऽनन्यबुद्धिना । भाव्यते गाढसंस्कारैश्चित्ते भावः स कथ्यते ॥“ (भक्तिरसामृतसिन्धौ २.५.१३२-१३३) + गौडवैष्णवाचार्यै: श्रीमत्कविकर्णपूरगोस्वामिपादैः स्पष्टीकृतं यत् – “रसे सारश्चमत्कारो यं विना न रसो रसः । तच्चमत्कारसारत्वे सर्वत्रैवाद्भुतो रस: ॥“ (अलङ्कारकौस्तुभे) । अपि च माधुर्यकादम्बिन्यां श्रीविश्वनाथचक्रवर्त्तिपादै: — “भक्तिः पूर्वैः श्रिता तां तु रसं पश्येद्यदात्तधी: । तं नौमि सततं रूपनामप्रियजनं हरेः ॥“ । श्रीचैतन्यचरितामृतेऽपि (२.१९.१) श्रीकृष्णदासकविराजगोस्वामिपादैः – “वृन्दावनीयां रसकेलिवार्त्तां कालेन लुप्तां निजशक्तिमुत्क: । सञ्चार्य रूपे व्यतनोत्पुनः स प्रभुर्विधौ प्रागिव लोकसृष्टिम् ॥“ + भविष्योत्तरपुराणे (३.४.१०.३४) – “अनर्पितचरीञ्चिरात्करुणयाऽवतीर्ण: कलौ समर्पयितुमुन्नतोज्जवलरसां स्वभक्तिश्रियम् । हरिः पुरटसुन्दरद्युतिकदम्बसन्दीपित: सदा स्फुरतु नो हृदयकन्दरे शचीनन्दन: ॥“ (खेमराजवेङ्कटेश्वरश्रीकृष्णदासप्रकाशनस्याऽवृत्तौ) । सुतरां गौडवैष्णवसम्प्रदाये त्वेव श्रीमद्भागवतस्य रसब्रह्मत्वमसाधारण्यत्वेन स्वीकृतं परिस्थापितमिति च ।

 

 

 

(निबन्धस्यैतदन्तर्जालीयं तन्तुसूत्रम् — https://goo.gl/Bch5ax)

 

— भक्तिरसवेदान्तपीठाधिपा: गुरुपादाचार्या: स्वामिन:

 

 

 

 

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s