Swami_Karpatri

करपात्रानुरागयोर्वृथागल्पनिरास: — तृतीयांश: / दिवङ्गत स्वामी करपात्री एवं अनुरागकृष्णशास्त्री कथावाचक वृन्दावनीय के वृथा गल्प का निरास (दार्शनिक संस्कृत में) / Confutation of the views upheld by Late Karapātrī Svāmī & Anurāgakṛṣṇa Śāstrī Kathāvācaka Vṛndāvanīya (Only in philosophical Sanskrit)

 

 

 

अनुरागार्भकस्य वृथा गल्प: —

 

 

Proof 4thProof 5thProof 6thProof 7th

 

करपात्रानुरागयोर्वृथागल्पनिरास: — तृतीयांश: / दिवङ्गत स्वामी करपात्री वा हरिहरानन्द सरस्वती एवं अनुरागकृष्णशास्त्री कथावाचक वृन्दावनीय के वृथा गल्प का निरास – तीसरा भाग (दार्शनिक संस्कृत में) / Confutation of the views upheld by Late Karapātrī Svāmī Hariharānanda Sarasvatī & Anurāgakṛṣṇa Śāstrī Kathāvācaka Vṛndāvanīya – Pt. 3 (Only in philosophical Sanskrit)

 

 

 

अनुरागार्भकस्य वृथा गल्प: —

 

 

*स्वयम्मन्यभक्तिरसवेदान्तपीठाधिपमतखण्डनम्*

 

अनाद्यपौरुषेयवेदादिसिद्धमतस्थापनप्रवृत्तानां सर्वभूतहृदयधर्म्मसम्राट्स्वामिश्रीकरपात्रमहाभागचरणानामिदमेव वैशिष्ट्यं यदन्याय्येनोदधिपारगताः श्रौतस्मार्तविहीनाः पण्डितम्मन्या अप्यनधिकृतेन कौटिल्येनैव तद्विचिन्त्यात्मानं धन्यीकुर्वन्ति । यद्यपि भक्तिरसवेदान्तपीठाधिपेन श्रीकरपात्रमतखण्डनं तु सर्वथा दुष्करत्वाद्धास्यास्पदमेव, तथापि “नभः पतन्त्यात्मसमं पतत्रिणः” वद्विचारो विधीयते । एतद्विद्वन्मन्येनाधर्म-नाश-दुष्कृदर्थं विविधभाष्यमवलोक्य वाक्यान्युद्धृतानि, तत्र न काचित्क्षतिस्तच्छोभन्त एव । तन्मतिदार्ढ्याय समासेन केवलमधर्मार्थमुद्घाटयामि । अधर्मः-(ध्रियतेsनेन, धृ+मनिन् ततो नञ् समासः । नञत्र विरोधार्थकः । धर्मविरोधी, अपराधः, श्रुतिस्मृतिविरोधाचारः, वेदनिषिद्धप्रतिपाद्यः, निषिद्धकर्मजन्यपापे, तद्धेतुभूतप्राणिहिंसादयोsनेकेsधर्मार्थाः कोशादौ द्रष्टव्याः)। पूर्वमीमांसायामपि “वेदबोधितेष्टसाधनताकोsधर्मः, इष्टानिष्टार्थस्तु तत्तत्स्थले पीठाधिपेन शास्त्रबुद्ध्यावलोकनीयः ।वेदे निषिद्धाचरणात्पापजनकत्वाच्च हेय एवात्मगुणविशेषोsधर्मः । भागवतेपि “ह्यधर्मस्तद्(वेद)विपर्ययः” प्रतिपादितः । पुनः “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।। इत्थमपि जिज्ञासुभावेन चिन्त्यम् । पुनश्च भागवतेSधर्मवृक्षस्य पञ्च शाखा विभक्तीकृताः “विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञोSधर्मवत्त्यजेत् ।। (‘अधर्मवत्त्यजेत्’ अत्राप्यधर्मत्याग एव विहितः) ।। धर्मबाधो विधर्मः स्यात्परधर्मोSन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः ।। यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ।। भा.७।१५।१२-१५ ।। कथमेतद्विधयापि पीठाधिपेनाधर्मस्य नाशस्थाने स्थापनं स्वीक्रियते ? सर्वदैवार्थप्रकरणादिवशाल्लक्षणामूलार्थीव्यञ्जनयादिभिश्चार्थो बोध्य इति न विस्मर्तव्यः । शास्त्रकोशाप्तवाक्यादिभिश्चाधर्माधर्मिशब्दयोरभेद एव सिद्ध्यत्यतस्तन्नाशः (अपाकरणम्) एवेष्टः । स्वामिकरपात्रमहाभागैः पीठाधिपोद्धृतानि सर्वाणि वाक्यानि दृष्टानि वर्तन्ते, तथापि प्रत्यक्षपरोक्षातिपरोक्षार्थसम्पादने पीठाधिपस्य दौर्बल्यमेव निश्चीयते । स्वयम्भुपीठाधिपेन शब्दशक्तिग्रहणे सच्छ्रमो विधातव्यः । “त्यज धर्ममधर्मञ्च” कथमत्र धर्मस्यापि त्यागो विधीयते ? “धर्मं भजस्व सततम्” सततं धर्मसेवनकथनादर्थो विचिन्त्यः। अतस्सद्भावेनैव वादो विधेय इत्यपि न विस्मर्तव्यम्।
Answer in Sanskrit Only
जैसे प्रकरणानुसार पाप और पापी का एक ही अर्थ होता है, वैसे ही वक्ता के इच्छानुसार अधर्मी और अधर्म समानार्थक भी होता है ।
गोषु प्रनष्टमानासु यज्ञो नाशं गमिष्यति । यज्ञे नष्टे देवनाशस्ततः सर्वं प्रणश्यति।।(लि.पु.भाष्ये) अत्र सनातनयज्ञानामरत्वविशिष्टदेवानां च नाशस्य कोSर्थः क्रियते पीठाधिपेन ? सर्वशब्देन तु परमात्मापि गृह्यते, अतः सर्व-परमात्मविनाशेपि को हेतुः प्रतिपाद्यते भवता ?

 

 

****************************************************************

 

 

अनुरागार्भककृज्जल्पस्य निरास:

 

 

 

अचिन्त्यभेदाभेदवेदान्तपरिपोषकगौडवैष्णववैदिकसम्प्रदायानुस्यूताद्वैताचार्यशाखीयैः सद्गुरुदेवप्रपूज्यपादैः श्रीमद्राममूर्त्तिस्वामिमहाभागैः भक्तिरसवेदान्तपीठाभिषिक्तानां गुरुपादाचार्याणां प्रामाण्यमाम्नायावाप्तमिति स्थिते (“राधानाथसमारम्भां गौरचन्द्रार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ।।“) ‘स्वयम्मन्य’ इति विपक्षकृदध्यारोपात्मकविशेषणपदमपास्तम् । भक्तिरसवेदान्तपीठाधिपतीनां दृष्टौ तु भक्तिरसवेदान्तादिसामष्टिकपदार्थानामधिष्ठातृत्वेनाखण्डमण्डलाकारित्वेन सङ्कीर्णप्रज्ञात्मकब्रह्मरुद्रादिदेवगणैरभ्यर्थितभगवन्नरायणावतारत्वेन नैकानेकावान्तरसम्प्रदायोपशाखाप्रशाखादिसमन्विताखिलसनातनधर्मस्य शिखामणिजगद्गुरुत्वेन च भगवत्कृष्णद्वैपायनबादरायणसात्यवतेयवेदव्यासा: महर्षय: केवलेनैव विराजन्ते तत्पदप्रतियोग्यभावात्स्कान्दवचनलब्धप्रामाण्यादपि च –“व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित्  । अन्ये व्यवहरन्त्येतान्युरीकृत्यगृहादिव ।।“ इति । अपि च भक्तिरसवेदान्तादिपदार्थवैयष्टिकांशानां नित्यसिद्धभगवत्पार्षदात्मिकया सिद्धगुरुप्रणाल्या सञ्चारात्स्वस्मिनेवास्माकं भक्तिरसवेदान्तपीठाधिपेत्याख्या निखिलसनातनधर्माप्रतिमजगद्गुरूवर्यैः प्रतिस्पर्धिराहित्यात्मकैः बदर्यारण्यविहारिभिः साकं निर्दुष्टसहावस्थानाच्छिद्ररहितेति स्मृता । तत्रैव समष्टिव्यष्टीतिप्रत्ययानां पारस्परिकविरोधाभावात्काऽपि विसङ्गतिर्नाशङ्कनीया । अतोऽस्माकमुपाधिः परम्परासुसङ्गत्वेन निर्णीत: ।

 

अनाद्यपौरुषेयवेदादिसिद्धमतस्थापनप्रवृत्तानामपि ‘सर्व्वभूतहृदयधर्मसम्राड्’ इति सञ्ज्ञायाययोग्यभूतानां {कथमयोग्यभूता:? (अमरकोषे २.८.३ तु – “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञ: स सम्राडथ राजकम् ।।“ – तदुपरि रत्नप्रभाव्याख्ययां —  ‘सार्वभौमविशेषस्य नाम….सकलराजशासक: सम्राडिति’ + व्याख्यासुधायां/रमाश्रम्याम् – ‘एकं सार्वभौमविशेषस्य…राजसूयकर्त्ता…द्वादशराजमण्डलस्येश्वर:….सर्वनृपतीनां शासकोऽपि सम्राट्’ + रघुवंशे २.५ – “….तस्याः सम्राट् समाराधन….”) राजक्षेत्रे प्रतियोगिशून्यो चक्रवर्त्ती सार्वभौमो नृप: सम्राडित्याख्यया ज्ञेयः । वैदिकधर्मक्षेत्रे त्ववान्तरसर्वसम्प्रदायाचार्याणामेकच्छत्राधीश एव सम्राडित्युपाधिना वेद्यः । एवं स्थिते करपात्रस्वामिनां निखिलसनातनार्यधर्मचक्रवर्त्तित्वमयुज्यते तेषां स्वकीयाद्वैतशाङ्करसम्प्रदायस्याखिलार्यधर्मैकदेशस्थानीयस्य दाक्षिणात्यकाञ्चीकामकोटिशृङ्गेर्याद्यैतिहासिकपीठाधिपनिचयासम्मितत्त्वात् । कुतः पुनुरुत्थाप्यतैतदापत्ति: — करपात्रयतीनामुपाधिद्वयस्य (‘धर्मसम्राट्सर्वभूतहृदयश्च’) प्रामाण्यं सर्वसनातनसम्प्रदायसम्मितम् ? अतो निरस्यते तेषां (करपात्रानां) कपोलकल्पितं सर्वभूतहृदयत्वमपि मुनीनां वैयासकीनां विश्वभूतहृदयत्ववैलक्षण्यात् । श्रीमद्भागवतपद्यानुगत्या (श्रीमद्भागवते १.२.२ — “…पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि” – भावार्थदीपिकायां श्रीधरस्वामिनश्चैवमाहुः – ‘सर्वभूतानां हृन्मनोऽयते योगबलेन प्रविशतीति सर्वभूतहृदयस्तम्’) बादरायणीनामखिलचराचरभूतत्वमवैगुण्येन प्रमाणितं तेषां ब्रह्मरातानां प्रतिनिधित्वेन तरुवृन्दकृदभिनिनादेन  । किन्त्वैतज्जातीयो कोऽपि जीवनप्रसङ्गक्रमो न दृश्यते करपात्रेतिवृत्ते  । अतस्तेषां सर्वभूतहृदयत्वं मिथ्यारोपसिद्धं केवलम् ।}

 

अस्माकमुदधिपारगतत्वमाकाशमार्गचारिणा वायुयानेनाऽभवन्न तु जलकपोतयानेन समुद्रसंयानेन वा  (कृष्णयजुर्वेदीयतैत्तिरीयशाखाया: बौधायनधर्मसूत्रेषु २.१.२.२. – “समुद्रसंयानम्” – अत्र विवरणव्याख्यानकर्तुः श्रीगोविन्दस्वामिनोऽभिप्राय: समुद्रयानेन/जलपोतयानेन द्वीपावान्तरयात्रायां पर्यवस्यति न त्वाकाशमार्गेण वायुयानेन) । अतः वयं श्रौतस्मार्त्तविहीनाः न । भक्तिरसवेदान्तपीठाधिपैः करपात्रमतखण्डनं सर्वथा सौकर्यात्सम्पादितमतः (सुसाध्यत्वात्) हर्षोल्लासकारकं तथाप्युलूकवदज्ञजनानां कृते पण्डितम्मन्यस्यानुरागकृष्णशास्त्रिन: कुमतं विचारणीयं विषयदृढीकरणार्थम् ।

 

अधर्मस्यात्मस्वरूपेऽनवस्थानादित्यद्वैतवेदान्तशास्त्राभिमतान्न्यायवैशेषिकदर्शनयोर्मतमवरुध्यते (‘आत्मगुणविशेषोऽधर्म:’) । अद्वैतवेदान्तशास्त्रमतेन (अद्वैतसम्प्रदाय: करपात्रस्वामिनां स्वकीय:)  त्वात्मस्वरूपं प्रज्ञानमात्रम्  (‘प्रज्ञानं ब्रह्म’ इति श्रुतेः) । धर्माधर्मयोर्तत्रनावकाशः तद्वद्धर्म्यधर्म्मिणोरपि च । धर्मेतिपदस्य व्युत्पत्तिप्रक्रियया (अध्रियतेऽनेन अधर्मः – धृ +मनिन् ततो नञ् समासः नञत्र विरोधार्थक:) धर्मशब्दस्य कोषोल्लिखितस्यार्थवैविध्येन च सहास्माकं कोऽपि न मतद्वैत: । श्रीमद्भागवतपद्यादप्यधर्मनाशो (‘ह्यधर्मस्तद्विपर्यय:’ – श्रीभा.पु. ६.१.४०) न श्रूयते । तत्त्वप्रभावल्या: प्रमाणखण्डेऽपि (४४८-४४९) “अभावो नञ्पदार्थोऽत्र षड्विध: सम्प्रकीर्त्तित: ।। तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्चेत्येते लाक्षणिकाऽपि ।।“ अत्र – सृष्टिप्रवर्त्तनकाले धर्माधर्मयोरभावः (अनुपलब्ध्यर्थेऽपि) कदापि न जायते धर्मस्य सनातनत्वादधर्मस्य तथैव नित्यत्वात्तदुभयोर्भगवता निष्पाद्यमानत्वात्सर्गादौ – इति अभावपक्षे – प्रथमेऽर्थे । धर्मेतराधर्म: धर्मतदन्यत्वात् । पूर्ववदधर्मस्य नित्यभावः ‘अन्यत्वपक्षेऽपि’ – द्वितीयेऽर्थे । धर्मसादृश्याच्छायातुल्य: पाखण्डधर्मो विनिर्दिश्यते – तदप्यधर्मस्य प्रकारः (पूर्ववदधर्मस्य नित्यभावः ‘सादृश्यपक्षेऽपि’ – तृतीयेऽर्थे) । धर्माल्पता पक्षे (चतुर्थेऽर्थे) त्वधर्मेतिपदप्रयोगोऽत्यन्तगौणोपचारार्थ: । गौणोपचारस्य किमप्युपादेयत्वं न युज्यते जनसामान्यानां कृते नादघोषे (“अधर्म का नाश हो”) तज्जनसामान्येष्वविद्वत्प्रकृतिजन्यविपर्ययज्ञानसम्भावनात् । सुतरां करपात्रीय: प्रयोगो निरर्थक: स्यात् । धर्मस्याप्राशस्त्यं प्रकारान्तरेणाऽधर्म एव (पूर्ववदधर्मस्य नित्यभावः ‘अप्राशस्त्यपक्षेऽपि’ – पञ्चमेऽर्थे) । धर्मस्य विरूद्धरूपात्मकोऽधर्म: (षष्ठमोऽर्थ:) तदपि तन्नाशोऽकल्पनीय: तदधर्मस्य हानिराहित्येन । श्रीमद्भागवतपद्येनाप्यधर्मस्य (“विधर्म: परधर्मश्चाभास उपमा छलः । अधर्मशाखा: पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ।।“ – श्री.भा.पु. ७.१५.१२) नाशोल्लेखः नास्ति । तत्रैव श्रीधरस्वामिपादानां टीका तु – “अधर्मवत्साक्षान्निषिद्धवत्” – निषिद्धवत्पञ्चपर्वात्मकाधर्मो त्यजनीय: । नष्टवस्तूनां त्यागो न भवितव्यम् ! अतः भक्तिरसवेदान्तपीठाधिपैरधर्मत्यागोऽभीष्टस्तदधर्मस्यात्यन्तिकनाशाभावात्  । “त्यजधर्ममधर्मञ्च” + “सर्वधर्मान्परित्यज्य” (श्रीमद्भगवद्गीता १८.६६) – इत्यादिपदैः धर्माधर्मयोः विवक्षित: नाशो नापितु तयोर्त्यागो हि विधेयः । श्रीवल्लभाचार्यैः स्पष्टीकृतं यत्सामान्यधर्मस्य (मानवधर्मस्य) विशेषधर्मस्य (वर्णाश्रमधर्मस्य) च  परिहारो कर्त्तव्यः परमधर्मावाप्त्यर्थमिति (भागवतधर्म: — “स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा संप्रसीदति ।।” – श्रीभा.पु. १.२.६ + “तावत्कर्माणि कुर्वीत न निर्विद्येत यावता  । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ।।“ – श्रीभा.पु. ११.२०.९) । पद्मपुराणान्तर्गतश्रीमद्भागवतमाहात्म्ये – “ धर्मं भजस्व सततं त्यज लोकधर्मान्सेवस्व साधुपुरुषाञ्जहि कामतृष्णाम् । अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथरसमहो नितरां पिब त्वम् ।।“ – अत्राप्याशय: पूर्ववत्  । अवरधर्मस्यापि त्यागो विधेयः तन्नाशो न मन्यते  । तथैवाधर्मस्य पक्षे ।

 

अधर्म्मिण: नाशेऽप्यधर्मस्य नाशो शास्त्रेषु कुत्रचिदेव न दृश्यते । अधर्मस्य ह्रासो जायते केवलेनैव । ब्रह्माण्डपुराणे (३४.५-६+ वायुपुराणेऽपि १.६०.५-६) – “वेदक्रिया हि कार्या: स्युर्माभूद्वेदविनाशनम् ।। वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति । यज्ञे नष्टे वेदनाशस्तत: सर्वं प्रणश्यति ।।“ – अस्मिन्प्रकरणे कर्मपरकवेदांशस्याननुष्ठानविधिनाऽचरणं न दृश्यत इत्याशय: ‘वेदनाशम्’ इति पदात् । कर्मपरकवेदानुष्ठानाचरणनाशो विवक्षित: न तु साक्षात्वेदस्य नाश: वेदस्याविनाशित्त्वात् । वेदक्रियाया आचरणनाशत्वात्वेदक्रियात्मकोऽधिष्ठानात्मकयज्ञोऽपि प्रणश्यति (आचरणाभावादेव – तत्त्वत: न, यज्ञस्य सनातनत्वात्) भूलोक एव (न त्वन्यलोकषु) न त्वधिष्ठातृयज्ञ : । यज्ञस्याधिष्ठातृत्वेन विष्णुः प्रस्थापितः “यज्ञो वै विष्णु:” – इति श्रौतनिर्वचनात् । “अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्” इति श्रीमद्भगवद्गीतोक्ते: सनातनात्मको विष्णुरविनाश्यव्ययत्वेन । अत्र वेदनाशात् (वस्तुतः वेदनाशो न सम्भाव्यते वेदस्याव्ययत्वात्) सर्वं प्रणश्यतीत्यत्र भावोऽयं यत् – वैदिकज्ञानप्रसूतप्रज्ञाया: लोप: । एवं स्थितेऽपि वेदेतरलौकिकज्ञानस्यालोप: तन्मूलकलोकस्य वेदवैलक्षण्यात्  । अतः सर्वमिति पदस्याशय: सर्ववैदिकज्ञानप्रसूतप्रज्ञेति सर्वेत्यपरसंज्ञया विदितो परमात्मा न क्षीयते कस्मिन्नप्यवस्थायामविकारित्वेन । पक्षान्तरे त्वयं श्लोक: (लि.पु. भाष्ये) – “गोषु प्रनष्टमानासु यज्ञो नाशं गमिष्यति । यज्ञे नष्टे देवनाशस्तत: सर्वं प्रणश्यति ।।“ – अत्रैवामरत्वविशिष्टदेवानां {तद्देवानामरत्वमपि लोकपितामहब्रह्मण आयुसापेक्षमिति श्रीगीतोक्तवचनात् – “आब्रह्मभुवनाल्लोका: पुनरावर्त्तिनोऽर्जुन” । अतस्तदमरत्वमपि ‘अक्षयं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ इतिवदर्थवादावलम्बनेन निर्द्धारितम्  । वस्तुतोऽक्षयसुकृतस्य क्षयं भवति श्रीगीतोक्तवचनादेवम् (९.२१) – “क्षीणे पुण्ये मर्त्यलोकं विशन्ति….” ।} वेदानाचरणाद्यज्ञस्यानाचरणम् । एतदनाचरणपरम्परया स्वर्गस्थदेवानां हविष्यभागो न दृश्यते  । हविष्यदानाभावात्तेषामलौकिकतेजहानिः । एवमपि तदिन्द्रादिदेवानां नाशो नोद्भाव्यते चतुर्मुखमुक्तिपर्यन्तमिति सिद्धान्त: । निष्कर्षेण त्व् “अधर्मस्य नाशो भवेद्” इति घोषनादे ‘नाश’ इति पदस्य ‘ह्रास’ इति भावो ग्राह्य एव (‘नाश’ इति पदस्यार्थोऽभावो लोपोऽपि न गृह्यत अर्थवादभयेन  ।) । परन्त्वज्ञजनसामान्यानां कृतैतद्घोषनादे ‘नाश’ इति पदस्य वैयर्थ्यं तज्जनसामान्ये विद्वदनुभूतेरभावाद् । करपात्रमहोदयानां चित्तेऽपि एतदनुभूतेरभावो परिलक्ष्यते । अन्यथा जनसामान्योपलक्ष्ये तैः ‘ह्रास’ इति पदस्योपयोग: किं न कृतम् ?

 

 

 

(अन्तर्जालीय पृष्ठतन्तु: — https://goo.gl/ozMstF)

 

— भक्तिरसवेदान्तपीठाधीश्वरा: गुरुपादाचार्या: स्वामिन:

 

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s