करपात्रमतनिरसनम् – चतुर्थांश: / करपात्रीय मत का अपगम – ४था भाग (अधिकांशत: संस्कृत आवृत्ति — किञ्चित् हिन्दी व गुरुण्डा/अङ्ग्रेजी/यावनी के संमिश्रण के साथ) / Refutation of the views held by Late Svāmī Karapātrī – 4th Pt. (Primarily Sanskrit version with a bit of Hindi and English interwoven)

Vishvas Vasuki

Proof 8Proof 9Proof 10Proof 11Proof 12Proof 13

 

 

 

 

 

विद्वद्वर: विश्वासो वासुकि: दाक्षिणात्य: —

 

 

श्रीमद्भ्यो नमः, नमश्चेन्द्रादिद्भ्यः।

दृष्टा भवतोश्चर्चा रुचिकरी – विशिष्य तस्या अन्तिमः पर्यायः। यद्यप्य् अक्षरशो न पठिता, तथाऽपि सारम् मन्ये सुगृहीतम्।

“अधर्म का नाश हो” इति वाक्ये या ऽऽपत्तिरुक्ता “निष्कर्षेण त्व् “अधर्मस्य नाशो भवेद्” इति घोषनादे ‘नाश’ इति पदस्य ‘ह्रास’ इति भावो ग्राह्य एव (‘नाश’ इति पदस्यार्थोऽभावो लोपोऽपि न गृह्यत अर्थवादभयेन ।) । परन्त्वज्ञजनसामान्यानां कृतैतद्घोषनादे ‘नाश’ इति पदस्य वैयर्थ्यं तज्जनसामान्ये विद्वदनुभूतेरभावाद् ।” इति, तत्रानौचित्यम् प्रतिभातितराम्।

लक्षणाव्यञ्जनाद्यर्थग्रहणार्थं सालङ्कारवाक्यप्रयोगाय वा नापेक्षितम् पाण्डित्यम् किञ्चन। सहजास् सन्ति लोके प्रयोगाः प्रत्यक्षं श्राव्या, महाभाष्यादिषु पाठ्या वा तत्र प्रमाणम्। उदाहरामि – “चुल्लू भर पानी मेँ डूब मरो”, “कुन्ताः प्रविशन्ति”, “गौर्वाहीकः”, “राजाऽसि पुत्रक”, “आङ्खोङ्का तारा हो”। प्रत्युत, स्पष्टस्यार्थस्यान्यथाग्रहणेन वर्तितुम् भाति पाण्डित्यम् आवश्यकम्!‌

श्रोतृभिर् भक्तैस्तु सहृदयैः “अधर्म का नाश हो” इति वाक्यस्याशयः स्पष्टं गृह्यते, उचितयैव रीत्या। आशाव्याजेन जनानाञ्चोदनमेव तत्। ग्लानिहान्यादिशब्दानां स्थाने नाशशब्दप्रयोग उत्साहवीर्यादिपूरणार्थम् इति भाति। एतदपि सहजसिद्धम्।

इत्थम् ममाऽत्र निष्कर्षो वादवस्तुनि। ततः परं गौणवचनद्वयम्।

* एवमेव ‘सर्व्वभूतहृदयधर्मसम्राड्’ इत्यर्थवादे स्तुतावप्याक्षेपो ऽर्थालङ्काराग्राहकत्वाज् जातो दृश्यते।

*‌ “सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभाः ।।” इति धियाऽवधारयतम्। आङ्ग्लोक्तिः‌ काचिदायाति मनसि – “You can attack what a person *said* or what the person *meant*. The former is more sensational. The mark of a charlatan is to defend his position or attack a critic by focusing on *some* of his/her specific statement (“look at what he said”) rather than attacking his position (“look at what he means”), the latter of which requires a broader knowledge of the proposed idea.” एतद् गाढं विचिन्तनीयम्। भवद्भिः सुविदितमेव स्यान् ममात्र निष्पक्षता – आर्य्यधर्म्मविवर्धकेषु यतिषु समेषु ममास्त्यादरः – स करपत्र्याख्यो वा गौडपादाभिख्यो वा। हितेच्छैव मामत्र प्रेरयति।

*‌ समुद्रोल्लङ्घनविषये सभाद्यक्षयतेर् उत्तरं युक्तम् अभिनन्द्यञ्च।

तदेवमुक्त्वा विरमामि प्रार्थनाभिः।

* “नभः पतन्त्यात्मसमं पतत्रिणः” इति पादयुक्तम् पद्यम् इच्छामि द्रष्टुम्।
* “वेदबोधितेष्टसाधनताकोsधर्मः” इति नाधिगतम्। अपि सूट्टङ्कितमिदम्?
*‌ अनुरागकृष्णस्य चित्रञ्च दिदृक्षे।
शुद्धिः — –
सुविदितमेव ->‌ सुविदितैव
पादयुक्तम् -> इति पादेन युक्तम्
***

 

अनुरागकृष्णशास्त्री कथावाचकः –

 

यद्यपि मत्प्रतिपादनं सुस्पष्टमेव तथापि पीठाधिपमहोदयैरर्थवैविध्येन धार्ष्ट्येन केवलं वाच्यार्थः प्रकाशितः, श्रमार्थं धन्यवादाः । साम्प्रतभक्तिरसेश्वरस्येदमेव वैलक्षण्यमनुभूयते । “मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी” पुनर्यथाकालमनुवर्तयिष्ये ।

 

***

 

वासुकिमहाभागं प्रति –

 

 

स्वस्ति ।

स्पष्टीकरण —

ब्रह्मलीन करपात्र महाभाग के ‘अद्वैतमत’ या उनकी ‘वर्णाश्रमपरायणता’ पर हमने कोई कटाक्ष नही किया है । केवल उनके अधर्म के नाश वाले विचारों का खण्डन किया हैं क्योंकि हमारी दार्शनिक दृष्टि उन विषयों पर एकमत नहीं । करपात्रयतिवर्य का जो महत्योगदान है धर्म के कई क्षेत्रों में, उसके तो हम भी भूरि भूरि प्रशंसक हैं निर्विवाद रूप से । परन्तु हम हमारे उपरोक्त विश्लेषण में उद्धृत कई कारणों से उनके द्वारा गृहीत कई उपाधियों को उचित नहीं मानते । आपके द्वारा उत्थापित कुछ वैचारिक बिन्दुओं का संस्कृत में समाधान देंगे कुछ निमेषों में ।
— गुरुपादाचार्य स्वामी

 

***
विश्वासो वासुकि: —

 

“भवतस्तस्मिन् सौमनस्यं ज्ञात्वा सन्तोषः‌  ”

 

***
गुरुपादाचार्या: —

 

वयमपि प्रफुल्लिता:।

 

***

 

गुरुपादाचार्या:  वासुकिं प्रति –

 

लोकव्यवहारे तु लक्षणाव्यञ्जनाद्यर्थग्रहणार्थं सालङ्कारवाक्यप्रयोगाय वा नापेक्षितं पाण्डित्यं किञ्चन तल्लोकव्यवहारस्य प्रत्यक्षानुमानसाहाय्येन घटितत्वात् । तद्वैपरीत्येन तु शब्दप्रमाणैकगम्यत्वाद्वेदप्रतिप्रन्नधर्मपथे परमार्थपथेऽपि  धर्मब्रह्मणोर्तत्त्वावगममनुभूयते सर्वथा शास्त्रविनिर्दिष्टाभि: श्रौतरूढिजहदजहल्लक्षणादिवृत्तिभि: निगमनहेत्वादिभूतपञ्चाङ्गिन्यायेन पूर्वोत्तरपक्षादिसमवेतपञ्चावयवात्मिकयाऽधिकरणप्रक्रिययोपक्रमोपसंहारापूर्वतेत्यादिभूतषड्लिङ्गतात्पर्यनिर्णयकोष्ठकेनैव च । अतोऽत्रौचित्यं प्रतिभातितराम् । (अत्रैवावलोकनीयमेतत् – “प्रत्यक्षञ्चानुमानञ्च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ।।“ – मनुस्मृतौ १२.१५ — तथापि गौडवैष्णवाचार्यै: श्रीलजीवगोस्वामिपादै: तत्वसन्दर्भीयं व्याख्यानमेतत् – तत्त्वसन्दर्भे ९ + १० + ११  – “तत्र पुरुषस्य भ्रमादिदोषचतुष्टयदुष्टत्वात्सुतरामलौकिकाचिन्त्यस्वभाववस्तुस्पर्शायोग्यत्वाच्च तत्प्रत्यक्षादीन्यपि सदोषाणि । ततस्तानि न प्रमाणानीत्यनादिसिद्धसर्वपुरुषपरम्परासु सर्व्वलौकिकालौकिकज्ञाननिदानत्वादप्राकृतवचनलक्षणो वेद एवास्माकं सर्वातीतसर्वाश्रयसर्वाचिन्त्याश्चर्यस्वभावं वस्तु विविदिषतां प्रमाणम् । + एतत्टीकायां सर्वसंवादिन्यां कूर्मपुराणोद्धृतवाक्यम् – “पूर्वापराविरोधेन कोऽन्वर्थोऽभिमतो भवेत् । इत्याद्यमूहनं तर्क: शुष्कतर्कं तु वर्ज्जयेत् ।।“ – अनेन शास्त्रमूलकतर्को विधेय: शब्दप्रमाणानुगत्या ।)

 

आधुनिकै: प्रायिकैश्श्रोतृभिस्सहजभावभक्तैस्तु (न त्वधीतशास्त्रजया व्युत्पन्नमत्या युक्तै: भक्तवृन्दै: — “भक्त्या श्रुतगृहीतयेति” श्रीमद्भागवतपदयात्शास्त्रीया भक्तिरुल्लिखिता) यादृच्छिकहृदयै: (शास्त्रतथ्यपरिप्लुतहृदयैस्तु न)  “अधर्मनाशो भवेद्” इति वाक्यस्याशयः ह्रासः तच्चैव स्पष्टं न गृह्यते विद्वत्प्रत्ययाभावात् । आशाव्याजेन जनानां मतिविभ्रमो जायते कालानन्तरं यतः कोट्याधिकवारम् “अधर्मनाशो भवेदधर्मनाशो भवेद्” इति प्रलपयन्नप्यधर्मनाशो कथं न स्यादिदित्यादिरूपेण ! कथमधर्मस्य बाहुल्यमनुक्षणवर्द्धमानं दृश्यते ? धर्मस्यास्तित्वमपि वा ? तदपरिपक्वप्रज्ञभक्तजनेष्वबुधेषु बुद्धिभेदो प्रादुर्भूयते (श्रीमद्बगवद्गीतायामेवमेव ३.२६ – “न बुद्धिभेदं जनयेदज्ञानां…”) । अत आशाव्याजेन जनानाञ्चोदनमेवेति व्याख्यानो निरस्तः । ग्लानिहान्यादिशब्दानां स्थाने नाशशब्दप्रयोग उत्साहवीर्यादिपूरणार्थमपि तत्प्रयोगोऽनुचित:  तत्प्रयोगेन बुद्धिभेदजननात्तस्माच्च संशयात्मकत्वेन मतिर्विक्रियते मतिनाशात्श्रेयो जीवात्मन: प्रणश्यते (श्रीगीतायां २.६३ – “बुद्धिनाशात्प्रणश्यति”) ।

 

‘सर्वभूतहृदयधर्मसम्राड्’ इत्यर्थवादे स्तुतावप्याक्षेपोऽर्थालङ्कारग्राहकत्वादपि करपात्रपक्षे न युज्यते । कथम् ? करपात्रमहाभागानां पक्षे ‘धर्मसम्राड्’ इति समाख्याविशेषस्य  धारणेन स्वीकरणेन च तद्वैतसम्प्रदायमहानतमपूर्वाचार्याणां मधुसूदनसरस्वत्याद्यशङ्कराचार्यचित्सुखप्रकाशात्मश्रीचरणविद्यारण्यपञ्चपादिकाकारप्रभृतियतीन्द्रानां गरिमोल्लङ्घनं स्यात्तत्पूर्वाचार्यनिचयस्यापि ‘धर्मसम्राड्’ (सम्पूर्णस्य सनातनधर्मस्य प्रतियोगिरहितस्सार्वभौम:) इति भगवद्वेदव्यासैकच्छत्राधिकारगतेन तदुपाधिनाऽनलङ्करणत्त्वात्तथैव ‘सर्वभूतहृदय’ इति सर्वपरमहंसगणचक्रवर्त्तित्वेन राजन्ति ये बादरायणय: तद्ब्रह्मरातवैयासकिशुकदेवैकच्छत्राधिकारगतया तत्सञ्ज्ञयाऽसुशोभितत्त्वाच्चेत्यैतिह्यप्रमाणेनापि करपात्रमाहाभागानामाचरणो निरस्तः ।

 

The various classical ācāryas of the multifarious theological sects under the umbrella of Sanātana-dharma have, in past, set a precedent in unanimous coherence aimed at the analyses (primarily, polemical confutation) of mutual literary expressions and intentions – both alike – without segregating amidst them. This is our answer to the ‘said’ and ‘meant’ comment put forth.

 

“नभः पतन्त्यात्मसमं पतत्रिण:” + “वेदबोधितेष्टसाधनताकोऽधर्म:” + अनुरागकृष्णस्य चित्रं – एतत्सर्वमनुरागकृष्णादप्यञ्जसा लभ्यते ।

 

***

 

गुरुपादाचार्या अनुरागकृष्णं प्रति –

 
यद्यपि त्वत्प्रतिपादनमपास्तमेव तथापि करपात्रमहोदया: धार्ष्ट्येन स्वसम्प्रदायपूर्वाचार्याननुगत्या यच्छिष्टाचरणं प्रदर्शितवन्त: तदर्थमस्माकं भूरिश: साधुवादा: ! “मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी” – तवत्पार्श्वेऽप्यतिवावदूक: मुख: वर्त्तते, भो कथावाचकमहोदय ! मुहुर्यथाऽवसरं प्रतीक्षां करिष्याम: त्वदुत्तरस्य  । इत्यलम् ।

 

 

 

 

 

(अन्तर्जालीय: पृष्ठतन्तु: — https://goo.gl/RrEhj5)

 

— गुरुपादाचार्या: स्वामिन:

 

 

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s