वेदानामपौरुषेयत्वप्रतिपादनं म्लेच्छागमपौरुषेयत्वस्थापनञ्च (केवल संस्कृत में / Only Saṁskṛt)

 

 

 

संहिताब्राह्मणारण्यकोपनिषदादिग्रन्थानां तात्पर्यसाम्यतयापि तदैकतानतायाः समुच्चयेन तद्ग्रन्थेषु शब्दप्रयोगवैशिष्ट्याधारेण तेषामपौरुषेयत्वमप्याक्षेपार्हमेवान्यपौरुषेयार्षागमादिग्रन्थेषूपलब्धवैदिकशब्दशैलिप्रयोगादतः वेदानामपौरुषेयत्वमागतं तेषामनाद्यविच्छिन्नसम्प्रदायनिबन्धनात्तन्निर्मातृनिर्माणयोरभावाच्च । नैयायिकमते वर्णसमाम्नायानां यदनित्यत्वं स्वीकृतं तन्निरासो जायते पूर्वमीमांसकदृष्टौ कण्ठताल्वादिविनिर्गतध्वनेरस्थायित्वमपि । सुतरां वेदब्राह्मणादिग्रन्थानामाद्यनिरपेक्षोच्चारयितुरभावात्तेषामपौरुषेयत्वं स्थितम् । ऋषय: मन्त्रद्रष्टार: न तु मन्त्रकृज्जना: । ऐतरेयारण्यकस्य शान्तिपाठे यदुक्तं – “….नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो…” – तत्रैव मन्त्रकृदिति पदे ‘मन्त्रस्रष्टार’ इत्याशय: नापितु मन्त्राविर्भावका: ऋषय: मन्त्रदर्शकाश्चेत्याशयो गृह्यते । तथैव मन्त्रपतिरिति पदेऽप्याशय: मन्त्रेष्टदेवतायां नापितु ऋषिजने मन्त्ररक्षके गृह्यते । ब्रह्मप्रेरणया निःसृता वागपौरुषेयवाच्या स्यादित्यत्राशय: — “अनादिनिधना विद्या (‘ह्येषा’ इति पाठभेदात्) वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः ॥” (महाभारते १२.२३२.२४ / १२.२३१.५६ – पाठक्रमभेदात्) ( Beginning-less and endless is this vāk manifested on its own, first as Veda the celestial and from that everything else born. / आदिरहिता एवं अन्तरहिता यह वेदमयी दिव्या विद्यावाणी स्वयम्भूरूपेण प्रकाशित/सृष्ट है एवं यही प्रथम वेद के रूप में एवं तदनन्तर सर्ववस्तुज्ञान को प्रसवित करती है ।) । तैत्तिरीयारण्यकस्य स्वाध्यायब्राह्मणे यद्श्रूयते – “अजान्ह वै पृश्ञींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्तऋषयोऽभवन्तद्ऋषीणां ऋषित्वम्” । ऋग्वेदेऽपि यद्दृश्यते (१०.७१.३) – “यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्ऋषिषु प्रविष्टाम्” । अत्राशय एवं —  अनादिवागुत्सृष्टगीर्वाणस्य महतो भूतस्य निःश्वसितस्य चापि मनुष्यदेवऋषिगणानामीश्वरानुगृहीतचित्तनिचयेषु सामयिकाविर्भावं स्यात् यथा एतै: प्रमाणै: दृढीकृतम् – “अस्य महतो भूतस्य निःश्वसितमेतद्ऋग्वेदोयजुर्वेदः सामवेदोऽथर्व्वाङ्गिरस:” (शुक्लयजुर्वेदीयमाध्यन्दिनीयशतपथब्राह्मणस्य बृहदारण्यकश्रुतौ  २.४.१०) + “युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षय:  । लेभिरे तपसा पूर्वमनुज्ञात: स्वयम्भुवा ॥“ (माहाभारतस्य शान्तिपर्वणि २१०.१९) + “अत एव च नित्यत्वम्” (ब्रह्मसूत्रेषु १.३.२९) । सुतरां कोऽपि विवादः नास्त्यनादिनिधनवागुत्सृष्टगीर्वाणवादेन साकं ब्रह्मप्रेरितऋषिगणचित्तनिःसृतवेदवादस्य तद्वादयोर्सहावस्थानप्रतिपत्ते: ।

 

अवैदिकसेश्वरयावनिकविधर्मत्रयस्य (Christianity + Islam + Judaism – Abrahamic denominations) ग्रन्थेषु (Old Testament / Torah + New Testament /Bible + Koran) यदीश्वरप्रवर्त्तितशब्दवादो कल्प्यते तच्छब्दवादस्याप्रतिपत्तिरुपजायते तन्म्लेच्छग्रन्थानां विश्वसृष्टे: प्रारभ्य वर्त्तमानकालात् २०१७वर्षेभ्य: प्रागेवानुपलब्ध्या कालव्यवच्छेदात् । अतः यवनमते त्वनुमितस्येश्वरप्रवर्तितशब्दवादस्याप्रमाण्यमवगम्यते ।

 

 

अथ प्रथमपूर्वपक्ष: —

 

क) न खलु । सृष्टेरारभ्य बहूनि वर्षाणि यावन्न सर्वाणि राक्षसपुस्तकभागानि प्रकाश्यन्त इति चेन्न तत्र काचिदीश्वरकर्तृत्ववादस्य हानिः । यथा ब्रह्मनिःश्वसितवेदांशानां तद्द्रष्टृषु नासीदाविर्भावो बहु कालं यावत् ।

 

ख) अपि च ते स्वमतस्याविच्छिन्नतां कथयन्त्यादमादारभ्य महामदं यावदपि ।

 

ग) तन्मतगतभागा बहवस्ततोऽपि बहुप्राचीना: श्रीमन् ! यथा मूषाऽब्राहमादयस्तदीय प्रवादिन ऊचुः ।

 

 

अथ प्रथमोत्तरपक्षः –

 

क) तदसत् । सृष्टेरारभ्य बहूनि वर्षाणि यावन्न सर्वाणि राक्षसपुस्तकभागानि प्रकाश्यन्त इति चेत्तत्रैश्वरकर्तृत्ववादस्याखिलहानिरेव । अयथा ब्रह्मनिःश्वसितवेदांशानां तद्द्रष्टृष्वासीदाविर्भावो श्वेतवाराहकल्पस्यादिमसृष्टौ स्वायम्भुवमन्वन्तरादारभ्य एव (मनुस्मृतेः प्राकट्यं कल्पादावभवद्राजर्षिमनोरादिमत्वात्)  । प्रमाणमत्रैव – “वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे” (मनुस्मृतौ १.२१) । तदुपरि मेधातिथिऋषेः टीका – “अथवा नैव वेदाः प्रलीयन्ते महाप्रलयेऽपि । योऽसौ पुरुषः केषांचिदिष्टस्तथा वेदा आसते । स एवान्तरण्डं ब्रह्माख्यं पुरुषं निर्माय वेदानध्यापयामास । एवं स ब्रह्मा वेदशब्देभ्य: सर्वं निर्मितवान् ।“ अतः ब्रह्मनिःश्वसितवेदांशतद्द्रष्टृबहुकालसापेक्षाविर्भावो निरस्तः लोकपितामहब्रह्मण आद्यदर्शकत्वाद्वेदानाम्  ।

 

ख) आदमादारभ्य महामदं यावदपि यदि म्लेच्छमतानां व्याप्तिश्चेत्तर्हि कुरानबाईबिलादिपुस्तकानामतीवाधुनिकाविर्भावो (तद्ग्रन्थानां संरचना) कथम्? इस्लाममतानुसारेण कुरानस्याविर्भावो – २२ दिसेम्बेर ६०९ ख्रिष्ट्रब्दे/ईसापश्चात् (22nd December 609 CE) अभवत् । तद्विपरीतवेदानां लौकिकप्रचलनं लोकपितामहब्रह्मण: जन्मादेव ! (वेदानामलौकिकावस्थानं तु कल्पस्रष्टेर्प्रागेव महाप्रलयेऽपीति प्रमाणितं मनुस्मृते:)

 

ग) तन्मतगतभागानां किमपि मूल्यं नास्ति तेषां पुस्तकानामत्यधुनिककालगताविष्कारात् ! तद्वैपरीत्येन तु वैदिकधर्मगतसमयसारण्या: प्रारम्भादेव वेदानां लौकिकप्रचलनम् ! सुतरां सनातनधर्मस्य डिण्डिमघोष: ।

 

 

 

अथ प्रथमोत्तरपक्षोपरि प्रथममुख्याक्षेप: —

 

अपीश्वरेण निश्चितं क्वचित् ‘सृष्टेः समन्तरमेव सर्वेऽप्युपदेशा मानुषेषु द्रष्टा: स्युर्’ इति ? यद्याम्, किमत्र प्रमाणम् ? न चेद्, अवेददर्शनसादृश्येऽपि राक्षसपुस्तक+ईश्वरकर्तृत्ववादे नास्त्येव हानिः ।

 

 

ततो गौणविषयेषु प्रधानचर्चाविषयेणासम्बद्धेष्वाक्षेपा: —

 

“वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे” इत्यनेन कथमिव सर्वेऽपि वेदशब्दा गृह्यन्ते ? केचनैव वेदशब्दा गृह्यन्ताम् । अन्यथा मनोरनन्तरवर्तिनां विश्वामित्रादिनां मन्त्रद्रष्ट्रित्वं कथमिव सम्भवति ? (मनोः परं विस्मृतेस्तेषां मन्त्राणां नास्त्येव क्वचिदपि वार्त्ता) । एवन्तर्हि सर्वेषां वेदांशानां सृष्टे: समनन्तरमेव मनुष्यैर्ज्ञानं न सम्भवति । किं बहुना प्रसिद्धैवोक्ति: — अनन्ता वै वेदा इति । तथा हि, सृष्टेरादावेव न खलु मनोर्जन्मोऽभवत् । आदौ अद्भ्य आरभ्य पृथिव्याकाशसूर्यादीनां ननु सृष्टि: स्पष्टा वेदेभ्य एव । एवं तर्हि वेदानां मनुष्येष्वाविर्भावो सृष्टेः कस्माच्चन कालादनन्तरमेवाभवदिति सिद्धम् । किञ्चैष गौणविषयो मुख्याक्षेपापेक्षया ।

 

 

अत्र काचनेतोऽपि मूलभूता वार्ता –

 

“भवन्त: स्वागमस्यापौरुषेयत्वं स्वागमावलम्बनेन प्रतिपादयन्ति । तेऽन्ये म्लेच्छा: स स्वागमानेवावलम्ब्य तदपौरुषत्वादिकं वदन्ति । एवन्तर्हि किं भवदुक्तापौरुषेयत्वेन ? कुतस्तदेवादरणीयम्” इत्याक्षेप: सहज: ।

 

 

म्लेच्छागमानाम् अविच्छिन्नतायाम् न ह्यवहिताः केचन विषयाः –
*‌ महामदस्य गुरुषु वर्तन्ते गब्रीलादयः खेचराः।
* मरून्मादोऽत्याधुनिकेश्चद्गृह्यताम् नाम यहूदानाम् आद्युन्मादः।

 

“Rabbinic writings indicate that the Oral Torah was given to Moses at Mount Sinai, which, according to the tradition of Orthodox Judaism, occurred in 1312 BC. … According to classical rabbinic texts this parallel set of material was originally transmitted to Moses at Sinai, and then from Moses to Israel. At that time it was forbidden to write and publish the oral law, as any writing would be incomplete and subject to misinterpretation and abuse. However, after exile, dispersion and persecution, this tradition was lifted when it became apparent that in writing was the only way to ensure that the Oral Law could be preserved. After many years of effort by a great number of tannaim, the oral tradition was written down around 200 CE by Rabbi Judah haNasi, who took up the compilation of a nominally written version of the Oral Law, the Mishnah (Hebrew: משנה).”

 

 

अथ प्रथमोत्तरपक्षस्य प्रथममुख्याक्षेपस्य प्रत्युत्तर: –

 

ब्रह्मसूत्रशाङ्करभाष्योद्धृतं (ब्र.सू. १.३.३०) स्मार्त्तवचनं यथा – “ऋषीणां नामधेयानि याश्च वेदेषु दृष्टय: । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यज: ॥“ (श्रीगोविन्दानन्दयतीनां भाष्यरत्नप्रभायामेतत् – “शर्वर्यन्ते प्रलयान्ते”) । अजः परमेश्वर: वेददृष्टीन्ददाति शर्वर्यन्ते प्रलयानन्तरं सृष्टेः समन्तरमेव वा प्रसूतेभ्य: ऋषिगणेभ्य: । सृष्टेः समन्तरमेव सर्वेऽप्युपदेशा मानुषेषु द्रष्टा: स्युरित्यत्र प्रमाणं वेदगायत्र्या: मनुस्मृतावुल्लेख: यथा – “ओङ्कारपूर्विकास्तिस्रो महाव्याह्तयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ।।“ + “त्रिभ्य एव तु वेदेभ्य पादं पादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ।।“ (मनु.स्मृ. २.८१+७७) गाधिसुतविश्वामित्रऋषे: प्रागेव मनुस्मृत्युक्त्या सावित्र्या प्रमाणितं समग्रवेदस्य सृष्टे: समन्तरमेवाविर्भावमिति । सावित्र्युल्लेखो दृश्यत एतेषु स्थलेषु – ऋग्वेदे ३.६२.१० + सामवदोत्तरार्चिके १३.३.३ + यजुर्वेदसंहितायां ३.३५ + ३०.२ + ३६.३ । ‘विश्वामित्रो ऋषिः’ – एतदुल्लेख: वेदेषु प्राप्यते । तदुल्लेखस्य रहस्यमेतद् – ब्रह्मसूत्रेषु १.३.२९ + १.३.३० – “अत एव च नित्यत्वम्” + “समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च” । अत्र व्याख्यानमेतद् – “अत एव सृष्टेर्वेदशब्दपूर्वकत्वादेव वेदस्य नित्यत्वम् । कठेन प्रोक्तं काठकं विश्वामित्रेण प्रोक्तं वैश्वामित्रमित्यादिनिर्वचनं तु तदुच्चारितमात्राभिप्रायेण (एतदुच्चारणं सादिसापेक्षम्, आद्यनिरपेक्षम् न)। तथा च सर्गादौ मन्त्रकृतो वृणीते विश्वामित्रस्य सूक्तं भवतीत्यादिवेदगतविश्वामित्रादिशब्दैस्तत्तदाकृतिशक्त्यादिकं पर्यालोच्य तत्तदाकारैस्तत्तत्छक्तिभिश्च तान्विनिर्माय तत्तन्मन्त्रादिप्रकाशने विनियुङ्क्ते । तेऽपि पुनराहितशक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान्पूर्वपूर्वविश्वामित्रादिप्रकाशितान्वेदमन्त्रादीननधीत्यैव स्वरतो वर्णतश्चाऽस्खलितान्पठन्तीति तेषां मन्त्रादिकर्तृत्वं वेदस्य च नित्यत्वं समुपपद्यते ।“ अतः वेददर्शनासादृश्ये राक्षसपुस्तक+ईश्वरकर्तृत्ववादे हानिरस्ति ।

 

 

गौणविषयेषु प्रधानचर्चाविषयेणासम्बद्धेष्वाक्षेपाणां प्रत्युत्तर: —

 

“वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे” इत्यनेन सर्वेऽपि वेदशब्दा गृह्यन्ते, केचनैव वेदशब्दा न गृह्यन्त इति । मनोरनन्तरवर्तिनां विश्वामित्रादिनां मन्त्रद्रष्ट्रित्वं कथमिव सम्भवति – इति शङ्काया: परिहार: स्यात्गाधिसुतविश्वामित्रऋषे: प्रागेव मनुस्मृत्युक्तया: सावित्र्या उल्लेखान् + नित्यसिद्धपूर्वपूर्वविश्वामित्रादिप्रकाशितवेदमन्त्रपरम्परया । एवन्तर्हि सर्वेषां वेदांशानां सृष्टे: समनन्तरमेव मनुष्यैर्ज्ञानं  सम्भवत्येव । बहुना प्रसिद्धैवोक्ति: — “अनन्ता वै वेदा” इत्युक्तेरभिप्राय एवं — (शिवपुराणस्य वायवीयसंहितायाम् १.२३) – “संक्षिप्य चतुरो वेदान्श्चतुर्धा व्यभजत्प्रभु: । व्यस्तवेदतया ख्यातो वेदव्यास इति स्मृतः ॥“ अतः (‘सङ्क्षिप्य’ इति पदेन) वेदस्यानन्त्यं नित्यसिद्धमनादिप्रकाशितञ्च । ‘आदौ अद्भ्य आरभ्य पृथिव्याकाशसूर्यादीनां ननु सृष्टि: स्पष्टा वेदेभ्य एव । एवं तर्हि वेदानां मनुष्येष्वाविर्भावो सृष्टेः कस्माच्चन कालादनन्तरमेवाभवदिति सिद्धम् ।‘ – इत्याक्षेपस्य परिहारो शतपत्रवेधन्यायेन ।

 

 

मूलभूतायाः वार्त्तायाः परिहार: —

 

‘भवन्त: स्वागमस्यापौरुषेयत्वं स्वागमावलम्बनेन प्रतिपादयन्ति । तेऽन्ये म्लेच्छा: स स्वागमानेवावलम्ब्य तदपौरुषत्वादिकं वदन्ति । एवन्तर्हि किं भवदुक्तापौरुषेयत्वेन ? कुतस्तदेवादरणीयम्” इत्याक्षेप: सहज: ।‘ – इत्याक्षेपस्य निरास एवं – आर्यधर्म्मिण: स्वागमावलम्बनेन वेदापौरुषेयत्वं केवलं प्रतिपादयन्ततीति न । अस्माकमार्याणां पक्षे वेदापौरुषेयत्वस्य मुख्यतमं कारणं लोकधरातले अनादिसिद्धसर्वपुरुषपरम्परासु वेदप्रचलनमेव (वेदपाठारम्भे स्वशाखागोत्रगृह्यसूत्रप्रवरादिकानां स्मरणं कर्त्तव्यमित्यार्षीया प्रणाली ।  अतः वेदस्य ‘विस्मृतसादित्ववादस्’ यापि निरासो जायते । अन्यथा वेदपाठारम्भे स्वशाखागोत्रप्रवरादिकैः साकं वेदस्यादिमरचनाकारस्यापि संस्मरणप्रेरिका आर्षीया प्रणाली भवितव्या ! किन्तु, तच्च न श्रूयते न दृश्यतेऽपि !) पक्षान्तरे (यवनपक्षे) तु म्लेच्छागमावलम्बनेन ते यवना: यत्तेषामागमस्यापौरुषत्वादिकं मन्यन्ते तदपौरुषेयस्य वैयर्थ्यं स्पष्टं तन्म्लेच्छागमानां लोकधरातले सादिसिद्धपरम्परासु प्रचलनात् ।

 

 

 

 

 

 

— भक्तिरसवेदान्तपीठाधीश्वरा: गुरुपादाचार्याः रामकृष्णस्वामिन आम्नायवाचस्पतय अचिन्त्यभेदाभेदवेदान्तिन अद्वैताचार्यपरिवारशाखीया: गौडीयवैष्णवसम्प्रदायिन: सनातनवैदिकधर्म्मावलम्बिन:

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s